शिव हरे शिव राम सखे प्रभो
शिव हरे शिव राम सखे प्रभो
त्रिविधतापनिवारण हे विभो ।
अज जनेश्वर यादव पाहि मां
शिव हरे विजयं कुरु मे वरम् ।।
कमललोचन राम दयानिधे
हर गुरो गजरक्षक गोपते ।
शिवतनो भव शङ्कर पाहि मां
शिव हरे विजयं कुरु मे वरम् ।।
सुजनरञ्जन मङ्गलमन्दिरं
भजति ते पुरुषः परमं पदम् ।
भवति तस्य सुखं परमद्भुतं
शिव हरे विजयं कुरु मे वरम् ।।
जय युधिष्ठिरवल्लभ भूपते
जय जयार्जितपुण्यपयोनिधे ।
जय कृपामय कृष्ण नमोऽतु ते
शिव हरे विजयं कुरु मे वरम् ।।
भवविमोचन माधव मापते
सुकविमानसहंस शिवारते
जनकजारत राघव रक्ष माम् ॥
शिव हरे विजयं कुरु मे वरम् ॥
अवनिमण्डलमंगल मापते
जलदसुन्दर राम रमापते ।
निगमकीर्तिगुणार्णव गोपते
शिव हरे विजयं कुरु मे वरम् ॥
पतितपावन नाममयी लता
तव यशो विमलं परिगीयते ।
तदपि माधव मां किमुपेक्षसे
शिव हरे विजयं कुरु मे वरम् ॥
अमरतापरदेव रमापते
विजयतस्तव नामधनोपमा ।
मयि कथं करुणार्णव जायते
शिव हरे विजयं कुरु मे वरम् ॥
हनुमतः प्रिय चापकर प्रभो
सुरसरिद्धृतशेखर हे गुरो ।
मम विभो किमु विस्मरणं कृतं
शिव हरे विजयं कुरु मे वरम् ॥
अहरहर्जनरञ्जनसुन्दरं
पठति यः शिवरामकृतं स्तवम् ।
विशति रामरमाचरणाम्बुजे
शिव हरे विजयं कुरु मे वरम् ॥
प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ।
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥
यह भी पढ़ें–
शिव स्तुति: मंत्र, श्लोक, और अर्थ सहित | Shiv Stuti Mantra, Shlok, Aur Arth Sahit
2 thoughts on “शिव हरे शिव राम सखे प्रभु”